२.१०७.६

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥

अन्वयः

बन्धुलुब्धस्य attached to your relations, नित्यम् always, भ्रातृसौहृदे in the welfare of your brothers, तिष्ठतः established, आर्यमार्गम् noble path, प्रपन्नस्य following, ते to you, कः पुमान् which man, नानुमन्येत would not approve?

Summary

You are always attached to your relations, firmly established in the welfare of your brothers and are pursuing a noble path. Who would not approve of this?

पदच्छेदः

नित्यंनित्यम् (अव्ययः)
तेत्वद् (६.१)
बन्धुलुब्धस्यबन्धु–लुब्ध (√लुभ् + क्त, ६.१)
तिष्ठतोतिष्ठत् (√स्था + शतृ, ६.१)
भ्रातृसौहृदेभ्रातृ–सौहृद (७.१)
आर्यमार्गंआर्य–मार्ग (२.१)
प्रपन्नस्यप्रपन्न (√प्र-पद् + क्त, ६.१)
नानुमन्येत (अव्ययः)–अनुमन्येत (√अनु-मन् विधिलिङ् प्र.पु. एक.)
कः (१.१)
पुमान्पुंस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि त्यं तेन्धु लु ब्धस्य
तिष्ठ तो भ्रातृ सौहृ दे
र्य मा र्गंप्र न्नस्य
नानु न्ये कःपु मान्