२.१०७.९

आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥

अन्वयः

शत्रुघ्नभरतौ Satrughna and Bharata, उभौ both, शीघ्रम् speedily, रथम् chariot, आरुह्य च having ascended, परमप्रीतौ highly pleased, मन्त्रिपुरोहितैः with counsellors and priests, वृतौ surrounded by, ययतुः proceeded.

Summary

Highly pleased, Bharata and Satrughna ascended the chariot and, surrounded by counsellors and priests, set out speedily.

पदच्छेदः

आरुह्यआरुह्य (√आ-रुह् + ल्यप्)
तुतु (अव्ययः)
रथंरथ (२.१)
शीघ्रंशीघ्रम् (अव्ययः)
शत्रुघ्नभरताव्शत्रुघ्न–भरत (१.२)
उभौउभ् (१.२)
ययतुःययतुः (√या लिट् प्र.पु. द्वि.)
परमप्रीतौपरम–प्रीत (√प्री + क्त, १.२)
वृतौवृत (√वृ + क्त, १.२)
मन्त्रिपुरोहितैःमन्त्रिन्–पुरोहित (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रुह्यतु थं शी घ्रं
त्रुघ्न तावु भौ
तुः प्री तौ
वृ तौन्त्रिपु रोहि तैः