२.१०८.१८

तैर्दुरात्मभिराविष्टानाश्रमान्प्रजिहासवः ।
गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ॥

अन्वयः

अद्य now, ऋषयः sages, दुरात्मभिः by those beings of wicked nature, तैः by those rakshasas, अमृष्टान् infested with, आश्रमान् the hermitages, प्रजिहासवः those who want to flee, अन्यदेशस्य to another region, गमनाय to go, माम् me, चोदयन्ति are urging.

Summary

Now all these sages are urging me to abandon this hermitage infested by these wicked rakshasas and move to another region.

पदच्छेदः

तैर्तद् (३.३)
दुरात्मभिर्दुरात्मन् (३.३)
आविष्टान्आविष्ट (√आ-विश् + क्त, २.३)
आश्रमान्आश्रम (२.३)
प्रजिहासवःप्रजिहासु (१.३)
गमनायान्यदेशस्यगमन (४.१)–अन्य–देश (६.१)
चोदयन्त्य्चोदयन्ति (√चोदय् लट् प्र.पु. बहु.)
ऋषयोऋषि (१.३)
ऽद्यअद्य (अव्ययः)
माम्मद् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैर्दु रात्मभि रा वि ष्टा
नाश्र मान्प्रजि हा वः
ना यान्य देस्य
चोन्त्यृ योऽद्य माम्