२.१०८.२

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥

अन्वयः

तत्र there, पुरस्तात् in front of, चित्रकूटस्य of Chitrakuta, तापसाश्रमे in the hermitage, रामम् Rama, आश्रित्य sought his protection, निरताः intent on staying, तान् them, उत्सुकान् anxious, अलक्षयत् observed.

Summary

Rama observed that the sages who earlier sought to stay with him near his hermitage under his protection on chitrakuta were filled with anxiety (now).

पदच्छेदः

येयद् (१.३)
तत्रतत्र (अव्ययः)
चित्रकूटस्यचित्रकूट (६.१)
पुरस्तात्पुरस्तात् (अव्ययः)
तापसाश्रमेतापस–आश्रम (७.१)
रामम्राम (२.१)
आश्रित्यआश्रित्य (√आ-श्रि + ल्यप्)
निरतास्निरत (√नि-रम् + क्त, १.३)
तान्तद् (२.३)
अलक्षयद्अलक्षयत् (√लक्षय् लङ् प्र.पु. एक.)
उत्सुकान्उत्सुक (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

येत्र चित्र कूस्य
पु स्ता त्ता साश्र मे
रा मा श्रित्यनि ता
स्ताक्ष दुत्सु कान्