२.१०८.३

नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः ।
अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥

अन्वयः

शङ्किताः suspicious, नयनैः with eyes, भृकुटीभिश्च by knitting their eyebrows, रामम् of Rama, निर्दिश्य glancing, अन्योन्यम् to each other, उपजल्पन्तः conversing, मिथः mutually, कथाः incidents, चक्रुः narrated.

Summary

Those sages, glancing at Rama with suspicious eyes, knitting their eyebrows and murmering among themselves, conversed secretly.

पदच्छेदः

नयनैर्नयन (३.३)
भृकुटीभिश्भृकुटी (३.३)
(अव्ययः)
रामंराम (२.१)
निर्दिश्यनिर्दिश्य (√निः-दिश् + ल्यप्)
शङ्किताःशङ्कित (√शङ्क् + क्त, १.३)
अन्योन्यम्अन्योन्य (२.१)
उपजल्पन्तःउपजल्पत् (√उप-जल्प् + शतृ, १.३)
शनैश्शनैस् (अव्ययः)
चक्रुर्चक्रुः (√कृ लिट् प्र.पु. बहु.)
मिथःमिथस् (अव्ययः)
कथाःकथा (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नैर्भृकु टी भिश्च
रा मं नि र्दिश्यङ्कि ताः
न्योन्यमु ल्प न्तः
नै श्च क्रुर्मि थः थाः