२.१०८.२१

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते ।
सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते ॥

अन्वयः

तात O dear child, खरः Khara, त्वय्यपि च with you also, अयुक्तम् improperly, पुरा प्रवर्तते behaves at the outset, बुद्धि: प्रवर्तते यदि if you so like, इतः from here, अस्माभिः सह along with us, गच्छ you may go.

Summary

Dear child, Khara will also misbehave with you as usual. (Therefore), if you so decide you may come along with us.

पदच्छेदः

खरस्खर (१.१)
त्वय्य्त्वद् (७.१)
अपिअपि (अव्ययः)
चायुक्तं (अव्ययः)–अयुक्त (२.१)
पुरापुरा (अव्ययः)
ताततात (८.१)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)
सहास्माभिर्सह (अव्ययः)–मद् (३.३)
इतोइतस् (अव्ययः)
गच्छगच्छ (√गम् लोट् म.पु. )
यदियदि (अव्ययः)
बुद्धिःबुद्धि (१.१)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त्वय्यपि चा यु क्तं
पु रा ताप्रर्त ते
हा स्माभिरि तोच्छ
दि बु द्धिःप्रर्त ते