२.१०८.२३

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम् ॥

अन्वयः

राजपुत्रः son of a king, राम Rama, इति thus, उक्तवन्तम् saying this, समुत्सुकम् anxious, तं तपस्विनम् that sage, उत्तरैः in the form of a reply, वाक्यैः by words, अवरोद्धुम् to hold him back, न शशाक was unable.

Summary

It was not possible for prince Rama to hold back by mere words that ascetic who was saying like this and was anxious to quit the hermitage.

पदच्छेदः

इत्य्इति (अव्ययः)
उक्तवन्तंउक्तवत् (√वच् + क्तवतु, २.१)
रामस्राम (१.१)
तंतद् (२.१)
राजपुत्रस्राजन्–पुत्र (१.१)
तपस्विनम्तपस्विन् (२.१)
(अव्ययः)
शशाकोत्तरैर्शशाक (√शक् लिट् प्र.पु. एक.)–उत्तर (३.३)
वाक्यैर्वाक्य (३.३)
अवरोद्धुंअवरोद्धुम् (√अव-रुध् + तुमुन्)
समुत्सुकम्समुत्सुक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्युक्त न्तं रा स्तं
रा पु त्रस्तस्वि नम्
शा कोत्त रै र्वा क्यै
रो द्धुं मुत्सु कम्