२.१०८.६

प्रमादाच्चरितं कच्चित्किंचिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥

अन्वयः

मे अवरजस्य my younger brother's, लक्ष्मणस्य of Lakshmana, प्रमादात् through inadvertance, आत्मनः himself, नानुरूपं unbefitting, चरितम् conduct, ऋषिभिः by sages, दृष्टं कच्चित् has been seen.

Summary

Have the sages found my younger brother Lakshmana doing something unbecoming of him through inadvertence?

पदच्छेदः

प्रमादाच्प्रमाद (५.१)
चरितंचरित (√चर् + क्त, १.१)
कच्चित्कश्चित् (१.१)
किंचिन्कश्चित् (१.१)
नावरजस्य (अव्ययः)–अवरज (६.१)
मेमद् (६.१)
लक्ष्मणस्यर्षिभिर्लक्ष्मण (६.१)–ऋषि (३.३)
दृष्टंदृष्ट (√दृश् + क्त, १.१)
नानुरूपम् (अव्ययः)–अनुरूप (१.१)
इवात्मनःइव (अव्ययः)–आत्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र मा दाच्चरि तंच्चि
त्किं चि न्नास्य मे
क्ष्म स्यर्षि भि र्दृ ष्टं
नानु रूमि वात्म नः