२.१०८.९

कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥

अन्वयः

तात O dear child, कल्याणसत्त्वायाः of a lady of auspicious nature, तथा also, कल्याणाभिरतेः ever engaged in performing auspicious deeds, वैदेह्याः Sita's, चलनम् violation of duty, विशेषतः especially, तपस्विषु in respect of ascetics, कुतः how ?

Summary

O dear child, how can goodnatured Sita who is always engaged in performing auspicious deeds, especially towards ascetics be associated with violation of duty?

पदच्छेदः

कुतःकुतस् (अव्ययः)
कल्याणसत्त्वायाःकल्याण–सत्त्व (६.१)
कल्याणाभिरतेस्कल्याण–अभिरति (६.१)
तथातथा (अव्ययः)
चलनंचलन (१.१)
ताततात (८.१)
वैदेह्यास्वैदेही (६.१)
तपस्विषुतपस्विन् (७.३)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कु तः ल्या त्त्वा याः
ल्या णाभि तेस्त था
नं ता वै दे ह्या
स्तस्विषुवि शे तः