२.१०९.१२

देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ ॥

पदच्छेदः

देवकार्यनिमित्तंदेव–कार्य–निमित्त (२.१)
(अव्ययः)
ययायद् (३.१)
संत्वरमाणयासंत्वरमाण (√सम्-त्वर् + शानच्, ३.१)
दशरात्रंदशरात्र (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
रात्रिःरात्रि (१.१)
सेयंतद् (१.१)–इदम् (१.१)
मातेवमातृ (१.१)–इव (अव्ययः)
तेत्वद् (६.१)
ऽनघअनघ (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे कार्यनि मि त्तं
या संत्व मा या
रा त्रं कृ त्वा रा त्रिः
से यं मा ते तेऽन