२.१०९.२१

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥

अन्वयः

ततः then, महाभागाम् glorious lady, धर्मचारिणीम् engaged in righteous acts, तां सीताम् that Sita, सान्त्वयन्ती consoling, हृष्टा in delight, अब्रवीत् said, दिष्ट्या fortunately, धर्मम् rightful duty, अवेक्षसे you are observing.

M N Dutt

Seeing the virtuous Sītā engaged in righteous acts, the old lady consoling her, said "By luck it is that you regard righteousness."

Summary

Anasuya was delighted to see the glorious Sita who was always engaged in righteous acts and said in kind words, You are fortunate. You are observing your rightful duty.

पदच्छेदः

ततःततस् (अव्ययः)
सीतांसीता (२.१)
महाभागांमहाभाग (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तांतद् (२.१)
धर्मचारिणीम्धर्म–चारिन् (२.१)
सान्त्वयन्त्य्सान्त्वयत् (√सान्त्वय् + शतृ, १.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
धृष्टाधृष्ट (√धृष् + क्त, १.१)
दिष्ट्यादिष्टि (३.१)
धर्मम्धर्म (२.१)
अवेक्षसेअवेक्षसे (√अव-ईक्ष् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सी तां हा भा गां
दृ ष्ट्वा तांर्म चारि णीम्
सान्त्व न्त्यब्र वी द्धृ ष्टा
दि ष्ट्यार्म वेक्ष से