२.१०९.६

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥

अन्वयः

(अस्य of Rama), सुसत्कृतम् rendered befitting hospitality, सर्वम् in all ways, आतिथ्यम् hospitality, स्वयम् himself, आदिश्य च having ordered, महाभागाम् highly virtuous, सीतां च Sita, सौमित्रिं च also Lakshmana, समसान्त्वयत् treated with kind words.

M N Dutt

And having personally given Rāma respectful reception and entertainment, the ascetic regarded the exalted Lakşmaņa and Sītā with a gracious eye.

Summary

That sage Atri himself extended to Rama the hospitality befitting him in all possible ways and treated Lakshmana and highly virtuous Sita with kind words.

पदच्छेदः

स्वयम्स्वयम् (अव्ययः)
आतिथ्यम्आतिथ्य (२.१)
आदिश्यआदिश्य (√आ-दिश् + ल्यप्)
सर्वम्सर्व (२.१)
अस्यइदम् (६.१)
सुसत्कृतम्सु (अव्ययः)–सत्कृत (√सत्-कृ + क्त, २.१)
सौमित्रिंसौमित्रि (२.१)
(अव्ययः)
महाभागांमहाभाग (२.१)
सीतांसीता (२.१)
(अव्ययः)
समसान्त्वयत्समसान्त्वयत् (√सम्-सान्त्वय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्व मा तिथ्य मा दिश्य
र्वस्यसुत्कृ तम्
सौ मि त्रिं हा भा गां
सी तां सान्त्व यत्