२.११.४

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा ।
प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥

अन्वयः

तदा then, कैकेय्या by Kaikeyi, एवम् in this way, उक्तः having said, राजा दशरथः king Dasaratha, क्रुद्धः in indignation, मुहूर्तम् for a while, विह्वलन्निव as if in a state of delirium, ततः afterwards, प्रत्युवाच replied.

M N Dutt

Thus addressed by Kaikeyi king Dasaratha, remaining stupefied for a while thus answered her in wrath.

Summary

Thus addressed by Kaikeyi, king Dasaratha flew into a temper for a while, and then as if in a state of delirium, replied:

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्उक्त (√वच् + क्त, १.१)
तुतु (अव्ययः)
कैकेय्याकैकेयी (६.१)
राजाराजन् (१.१)
दशरथस्दशरथ (१.१)
तदातदा (अव्ययः)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
मुहूर्तंमुहूर्त (२.१)
विह्वलन्न्विह्वलत् (√वि-ह्वल् + शतृ, १.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु कै के य्या
रा जास्त दा
प्रत्यु वा तः क्रु द्धो
मु हू र्तं विह्वन्नि