२.११.७

तथा विलपतस्तस्य परिभ्रमितचेतसः ।
अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत ॥

अन्वयः

परिभ्रमितचेतसः with a whirling mind, तस्य of that Dasaratha, तथा in that way, विलपतः lamenting सूर्यः the Sun, अस्तमभ्यगमत् set, रजनी च night also, अभ्यवर्तत च fell.

M N Dutt

As king Dasaratha was bewailing thus with a heart wrought up with grief, the sun set and night came on.

Summary

While Dasaratha was thus lamenting with a distracted mind, the Sun set and night fell.

पदच्छेदः

तथातथा (अव्ययः)
विलपतस्विलपत् (√वि-लप् + शतृ, ६.१)
तस्यतद् (६.१)
परिभ्रमितचेतसःपरिभ्रमित (√परि-भ्रमय् + क्त)–चेतस् (६.१)
अस्तम्अस्त (२.१)
अभ्यगमत्अभ्यगमत् (√अभि-गम् प्र.पु. एक.)
सूर्योसूर्य (१.१)
रजनीरजनी (१.१)
चाभ्यवर्तत (अव्ययः)–अभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थावि स्तस्य
रिभ्रमि चे सः
स्तभ्य त्सू र्यो
नी चाभ्यर्त