२.११०.२४

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥

अन्वयः

मैथिलि O daughter of the king of Mithila, ताम् that story, विस्तरेण in detail, श्रोतुम् to hear, इच्छामि I wish, तत् that one, त्वम् you, यथाऽनुभूतम् as you experienced, कात्स्न्येन entirely, वक्तुम् अर्हसि you should tell me.

M N Dutt

O Maithili, that story I should like to hear, related at length. It therefore, behoves you to relate that to me in detail.

Summary

O daughter of Mithila, I would like to hear the story in detail. You should tell me the whole story as you experienced it.

पदच्छेदः

तांतद् (२.१)
कथांकथा (२.१)
श्रोतुम्श्रोतुम् (√श्रु + तुमुन्)
इच्छामिइच्छामि (√इष् लट् उ.पु. )
विस्तरेणविस्तर (३.१)
(अव्ययः)
मैथिलिमैथिली (८.१)
यथानुभूतंयथा (अव्ययः)–अनुभूत (√अनु-भू + क्त, १.१)
कार्त्स्न्येनकार्त्स्न्य (३.१)
तन्तद् (२.१)
मेमद् (४.१)
त्वंत्वद् (१.१)
वक्तुम्वक्तुम् (√वच् + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां थां श्रोतु मि च्छामि
विस्त रे मैथिलि
थानु भू तं का र्त्स्न्ये
न्मे त्वंक्तुर्हसि