२.११०.२७

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥

अन्वयः

तस्य his, लाङ्गलहस्तस्य of a man holding a plough in hand, क्षेत्रमण्डलम् the circular plot of land for performing sacrifice, कर्षतः while ploughing, अहम् I, नृपतेः king's, सुता as daughter, जगतीम् the earth, भित्वा breaking, उत्थिता किल arose, as they say.

M N Dutt

As he was ploughing a plain intended for a sacrifice, I rose from under the earth; and (in this sense) I am the daughter of that king.

Summary

When he was ploughing the circular plot of land for performing a sacrifice, it is said I emerged from the earth by breaking it and therefore I became his dauhghter.

पदच्छेदः

तस्यतद् (६.१)
लाङ्गलहस्तस्यलाङ्गल–हस्त (६.१)
कर्षतःकर्षत् (√कृष् + शतृ, ६.१)
क्षेत्रमण्डलम्क्षेत्र–मण्डल (२.१)
अहंमद् (१.१)
किलोत्थिताकिल (अव्ययः)–उत्थित (√उत्-स्था + क्त, १.१)
भित्त्वाभित्त्वा (√भिद् + क्त्वा)
जगतींजगती (२.१)
नृपतेःनृपति (६.१)
सुतासुता (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य लाङ्ग स्तस्य
र्ष तः क्षेत्रण्ड लम्
हंकि लोत्थि ता भि त्त्वा
तींनृ तेःसु ता