२.११०.३

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् ॥

अन्वयः

आर्ये O noble lady, एषः मम भर्ता my husband, वृत्तवर्जितः devoid of good conduct, यद्यपि भवेत् even if it happens, तथापि even then, एषः he, मया by me, अद्वैधम् without hesitation, उपचर्तव्यः should be obeyed.

Summary

O noble lady, even if my husband is devoid of good conduct, he should be obeyed without showing any hesitation.

पदच्छेदः

यद्य्यदि (अव्ययः)
अप्य्अपि (अव्ययः)
एषएतद् (१.१)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
भर्ताभर्तृ (१.१)
ममार्येमद् (६.१)–आर्य (८.१)
वृत्तवर्जितःवृत्त–वर्जित (√वर्जय् + क्त, १.१)
अद्वैधम्अद्वैध (२.१)
उपचर्तव्यस्उपचर्तव्य (√उप-चर् + कृत्, १.१)
तथाप्य्तथा (अव्ययः)–अपि (अव्ययः)
एषएतद् (१.१)
मयामद् (३.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य प्ये वे द्भ र्ता
मा र्ये वृत्तर्जि तः
द्वैमु र्तव्य
स्त था प्ये या वेत्