२.११०.३६

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥

अन्वयः

महीपालः the ruler of earth, माम् me, अयोनिजाम् not born from the womb, ज्ञात्वा having known, मम for me, सदृशम् equal, अनुरूपं च suitable, पतिम् husband, विचिन्तयन् thinking over, नाध्यगच्छत् did not find.

M N Dutt

Knowing me as unborn from any female vessel, the lord of earth reflecting upon it, could not come upon a suitable and fit husband for me.

Summary

The ruler of the earth knew that I was not born from a woman's womb, and could not find a suitable husband for me after deep reflection.

पदच्छेदः

अयोनिजांअयोनिज (२.१)
हिहि (अव्ययः)
मांमद् (२.१)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
नाध्यगच्छत् (अव्ययः)–अध्यगच्छत् (√अधि-गम् लङ् प्र.पु. एक.)
तद् (१.१)
चिन्तयन्चिन्तयत् (√चिन्तय् + शतृ, १.१)
सदृशंसदृश (२.१)
चानुरूपं (अव्ययः)–अनुरूप (२.१)
(अव्ययः)
महीपालःमहीपाल (१.१)
पतिंपति (२.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

योनि जांहि मां ज्ञा त्वा
नाध्य च्छत्स चिन्त यन्
दृ शं चानु रू पं
ही पा लः तिं