२.११०.३७

तस्य बुद्धिरियं जाता चिन्तयानस्य संततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥

अन्वयः

सन्ततम् constantly, चिन्तयानस्य pondering deeply, धीमतः wise, तस्य his, तनूजायाः for the daughter, स्वयंवरम् swayamvara, करिष्यामि I shall perform, इति thus, इयं बुद्धि: this thought, जाता was born.

M N Dutt

Then as he reflected, this thought occurred to him 'I will righteously celebrate the self-choice of my daughters'.

Summary

After constantly pondering over the matter, the wise king arrived at the decision to perform a swayamvara for his daughter.

पदच्छेदः

तस्यतद् (६.१)
बुद्धिर्बुद्धि (१.१)
इयंइदम् (१.१)
जाताजात (√जन् + क्त, १.१)
चिन्तयानस्यचिन्तयान (√चिन्तय् + शानच्, ६.१)
संततम्संततम् (अव्ययः)
स्वयंवरंस्वयंवर (२.१)
तनूजायाःतनूजा (६.१)
करिष्यामीतिकरिष्यामि (√कृ लृट् उ.पु. )–इति (अव्ययः)
धीमतःधीमत् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य बुद्धिरि यं जा ता
चिन्त यास्य सं तम्
स्व यं रं नू जा याः
रि ष्या मीति धी तः