२.१२.१७

इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् ।
स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय ॥

पदच्छेदः

इतिइति (अव्ययः)
राज्ञोराजन् (६.१)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
कैकेयीकैकेयी (१.१)
तदनन्तरम्तद्–अनन्तरम् (अव्ययः)
स्वयम्स्वयम् (अव्ययः)
एवाब्रवीत्एव (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
सूतंसूत (२.१)
गच्छगच्छ (√गम् लोट् म.पु. )
त्वंत्वद् (१.१)
रामम्राम (२.१)
आनयआनय (√आ-नी लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति रा ज्ञो चः श्रु त्वा
कै के यीन्त रम्
स्व मे वाब्र वी त्सू तं
च्छ त्वं रा मा