२.१२.१९

सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
प्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमन् ॥

अन्वयः

सुमन्त्रः Sumantra, करुणम् sorrowful words, श्रुत्वा having heard, दीनम् wretched, पार्थिवम् king, दृष्ट्वा च having seen, प्रगृहीताञ्जलिः with palms folded, तस्मात् देशात् from that place, किञ्चित् a little distance, अपाक्रमत् moved away.

M N Dutt

Hearing those sorrowful words and finding the lord of earth aggrieved thus, Sumantra with clasped hands went off a little.

Summary

Having heard the sorrowful words of the king and having seen his wretched state Sumantra with palms folded moved away a little from the place.

पदच्छेदः

सुमन्त्रःसुमन्त्र (१.१)
करुणंकरुण (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
दीनंदीन (२.१)
(अव्ययः)
पार्थिवम्पार्थिव (२.१)
प्रगृहीताञ्जलिःप्रगृहीत (√प्र-ग्रह् + क्त)–अञ्जलि (१.१)
किंचित्कश्चित् (२.१)
तस्माद्तद् (५.१)
देशाद्देश (५.१)
अपाक्रमन्अपाक्रमन् (√अप-क्रम् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु न्त्रःरु णं श्रु त्वा
दृ ष्ट्वा दी नं पार्थि वम्
प्रगृ ही ताञ्ज लिः किंचि
त्त स्मा द्दे शा पाक्र मन्