२.१२.२२

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ।
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ॥

अन्वयः

तया by her, चोदितः urged, सुमन्त्रः Sumantra, चिन्तयामास thought over, धर्मवित् a knower of righteousness, रामः Rama, व्यक्तम् definitely, अभिषेकार्थम् for installation, इह here, आयास्यति he will come.

Summary

Urged by Kaikeyi, Sumantra thought 'Righteous Rama will definitely come here for the purpose of installation'.

पदच्छेदः

सुमन्त्रश्सुमन्त्र (१.१)
चिन्तयामासचिन्तयामास (√चिन्तय् प्र.पु. एक.)
त्वरितंत्वरितम् (अव्ययः)
चोदितस्चोदित (√चोदय् + क्त, १.१)
तयातद् (३.१)
व्यक्तंव्यक्त (२.१)
रामोराम (१.१)
ऽभिषेकार्थम्अभिषेक–अर्थ (२.१)
इहायास्यतिइह (अव्ययः)–आयास्यति (√आ-या लृट् प्र.पु. एक.)
धर्मवित्धर्म–विद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु न्त्र श्चिन्त या मा
त्वरि तं चोदिस्त या
व्य क्तं रा मोऽभि षे कार्थ
मि हा यास्यतिर्म वित्