२.१३.११

अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः ।
वादित्राणि च सर्वाणि बन्दिनश्च तथापरे ॥

अन्वयः

सर्वाभरणभूषिता: adorned with all kinds of ornament, माङ्गल्या: auspicious, अष्टौ eight, कन्या:unmarried girls, सर्वाणि all sorts of, वादित्राणि musical instruments, वन्दिन: च also panegyrists, तथा and, परे others (stood waiting).

Summary

Eight auspicious maidens adorned with all types of ornaments, all sorts of musical instruments, panegyrists and others (were in waiting).

पदच्छेदः

अष्टौअष्टन् (१.३)
कन्याश्कन्या (१.३)
(अव्ययः)
मङ्गल्याःमङ्गल्य (१.३)
सर्वाभरणभूषिताःसर्व–आभरण–भूषित (√भूषय् + क्त, १.३)
वादित्राणिवादित्र (१.३)
(अव्ययः)
सर्वाणिसर्व (१.३)
बन्दिनश्बन्दिन् (१.३)
(अव्ययः)
तथापरेतथा (अव्ययः)–अपर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ष्टौ न्याश्च ङ्ग ल्याः
र्वा भूषि ताः
वा दि त्राणि र्वाणि
न्दिश्च था रे