२.१३.१३

ते राजवचनात्तत्र समवेता महीपतिम् ।
अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत् ॥

पदच्छेदः

तेतद् (१.३)
राजवचनात्राजन्–वचन (५.१)
तत्रतत्र (अव्ययः)
समवेतासमवेत (√समव-इ + क्त, १.३)
महीपतिम्महीपति (२.१)
अपश्यन्तोअपश्यत् (१.३)
ऽब्रुवन्अब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)
को (१.१)
नुनु (अव्ययः)
राज्ञोराजन् (६.१)
नःमद् (२.३)
प्रतिवेदयेत्प्रतिवेदयेत् (√प्रति-वेदय् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते रा ना त्तत्र
वे ता ही तिम्
श्य न्तोऽब्रु न्कोनु
रा ज्ञो नःप्रति वे येत्