२.१३.८

चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् ।
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ॥

अन्वयः

चन्द्रांशुविकचप्रख्यम् resembling diffused rays of the moon, काञ्चनम् made of gold, रत्नभूषितम् adorned with gems, रामस्य for Rama, उत्तमम् excellent, वालव्यजनम् a fan made of yak's tail, सज्जं तिष्ठति is held in readiness.

Summary

An excellent fan of yak's tail with a staff of gold studded with gems looking like diffused moonbeams was kept ready.

पदच्छेदः

चन्द्रांशुविकचप्रख्यंचन्द्र–अंशु–विकच–प्रख्य (१.१)
पाण्डुरंपाण्डुर (१.१)
रत्नभूषितम्रत्न–भूषित (√भूषय् + क्त, १.१)
सज्जंसज्ज (१.१)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
रामस्यराम (६.१)
वालव्यजनम्वाल–व्यजन (१.१)
उत्तमम्उत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्रांशुवि प्र ख्यं
पाण्डु रंत्न भूषि तम्
ज्जं तिष्ठति रास्य
वाव्य मुत्त मम्