२.१४.२५

एष श्रियं गच्छति राघवोऽद्य; राजप्रसादाद्विपुलां गमिष्यन् ।
एते वयं सर्वसमृद्धकामा; येषामयं नो भविता प्रशास्ता ।
लाभो जनस्यास्य यदेष सर्वं; प्रपत्स्यते राष्ट्रमिदं चिराय ॥

अन्वयः

राजप्रसादात् by the king's grace, विपुलाम् the earth, गमिष्यन् attaining, एषः this, राघवः scion of the Raghus (Rama), अद्य today, श्रियम् wealth, गच्छति is to acquire, येषाम् who, नः for us, अयम् this, प्रशास्ता protector, भविता will become, एते वयम् all of us, सर्वसमृद्धकामाः all our desires will be gratified.

M N Dutt

This Rāghava going shall obtain through the grace of the king great wealth, and all our desires will be gratified when he will become our governor.

Summary

This scion of the Raghus (Rama) is going to acquire the earth and the wealth today by the king's grace. He will be our protector and fulfil all our desires.

पदच्छेदः

एषएतद् (१.१)
श्रियंश्री (२.१)
गच्छतिगच्छति (√गम् लट् प्र.पु. एक.)
राघवोराघव (१.१)
ऽद्यअद्य (अव्ययः)
राजप्रसादाद्राजन्–प्रसाद (५.१)
विपुलाङ्गम्विपुल–अङ्ग (२.१)
इष्यन्इष्यत् (√इष् + शतृ, १.१)
एतेएतद् (१.३)
वयंमद् (१.३)
सर्वसमृद्धकामासर्व–समृद्ध (√सम्-ऋध् + क्त)–काम (१.३)
येषाम्यद् (६.३)
अयंइदम् (१.१)
नोमद् (६.३)
भविताभविता (√भू लुट् प्र.पु. एक.)
प्रशास्ताप्रशास्तृ (१.१)
लाभोलाभ (१.१)
जनस्यास्यजन (६.१)–इदम् (६.१)
यद्यत् (अव्ययः)
एषएतद् (१.१)
सर्वंसर्व (२.१)
प्रपत्स्यतेप्रपत्स्यते (√प्र-पद् लृट् प्र.पु. एक.)
राष्ट्रम्राष्ट्र (२.१)
इदंइदम् (२.१)
चिरायचिराय (अव्ययः)