२.१५.१०

न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥

अन्वयः

राघवे son of the Raghus (Rama), अतिक्रान्तेऽपि even though he passed them, कश्चित् नरः no man, तस्मात् नरोत्तमात् from that best of men, मनः mind, चक्षुषी his eyes, अपाक्रष्टुम् to withdraw, न शक्नोति हि was never able.

M N Dutt

Rāghava passed away, but not a single person could withdraw his eyes and mind from that best of men.

Summary

Even though Rama, the best among men had driven past them none was able to withdraw his mind or eyes from him. (They continued).

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
तस्मान्तद् (५.१)
मनःमनस् (२.१)
कश्चिच्कश्चित् (१.१)
चक्षुषीचक्षुस् (२.२)
वावा (अव्ययः)
नरोत्तमात्नर–उत्तम (५.१)
नरःनर (१.१)
शक्नोत्य्शक्नोति (√शक् लट् प्र.पु. एक.)
अपाक्रष्टुम्अपाक्रष्टुम् (√अपा-कृष् + तुमुन्)
अतिक्रान्तेअतिक्रान्त (√अति-क्रम् + क्त, ७.१)
ऽपिअपि (अव्ययः)
राघवेराघव (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि स्मान्म नःश्चि
च्चक्षु षी वा रोत्त मात्
रः क्नोत्य पा क्रष्टु
ति क्रा न्तेऽपि रा वे