२.१५.१२

स राजकुलमासाद्य महेन्द्रभवनोपमम् ।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥

पदच्छेदः

तद् (१.१)
राजकुलम्राजन्–कुल (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
महेन्द्रभवनोपमम्महत्–इन्द्र–भवन–उपम (२.१)
राजपुत्रःराजन्–पुत्र (१.१)
पितुर्पितृ (६.१)
वेश्मवेश्मन् (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
श्रियाश्री (३.१)
ज्वलन्ज्वलत् (√ज्वल् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राकु मा साद्य
हेन्द्र नो मम्
रा पु त्रःपि तु र्वेश्म
प्रवि वेश्रि याज्व लन्