२.१५.१४

ततः प्रविष्टे पितुरन्तिकं तदा; जनः स सर्वो मुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनः स्म निर्गमं; यथोदयं चन्द्रमसः सरित्पतिः ॥

अन्वयः

तस्मिन् that, नृपात्मजे king's son, तदा then, पितुः father's, अन्तिकम् near, प्रविष्टे having entered, सः those, सर्वः all, जनः people, मुदितः were delighted, सरित्पतिः lord of rivers (ocean), चन्द्रमसः Moon's, उदयं यथा like the rise, तस्य his, पुनः निर्गमम् for his return, प्रतीक्षते स्म were waiting.

M N Dutt

That son of the king entering into the presence of his father, all were extremely gladdened and were eagerly expecting his return like to the lord of water expecting the appearance of the moon.

Summary

When the prince approached his father all the people were delighted and awaited his return like the ocean waiting for the rise of the Moon.इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तदशस्सर्गः॥Thus ends the seventeenth sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

ततःततस् (अव्ययः)
प्रविष्टेप्रविष्ट (√प्र-विश् + क्त, ७.१)
पितुर्पितृ (६.१)
अन्तिकंअन्तिक (२.१)
तदातदा (अव्ययः)
जनःजन (१.१)
तद् (१.१)
सर्वोसर्व (१.१)
मुदितोमुदित (√मुद् + क्त, १.१)
नृपात्मजेनृप–आत्मज (७.१)
प्रतीक्षतेप्रतीक्षते (√प्रति-ईक्ष् लट् प्र.पु. एक.)
तस्यतद् (६.१)
पुनःपुनर् (अव्ययः)
स्मस्म (अव्ययः)
निर्गमंनिर्गम (२.१)
यथोदयंयथा (अव्ययः)–उदय (२.१)
चन्द्रमसःचन्द्रमस् (६.१)
सरित्पतिःसरित्पति (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तःप्र वि ष्टेपितुन्ति कं दा
नः र्वोमुदि तोनृ पात्म जे
प्र तीक्ष तेस्यपु नःस्म निर्ग मं
थो यंन्द्र सः रित्प तिः