२.१६.१२

विवर्णवदनो दीनो न हि मामभिभाषते ।
शारीरो मानसो वापि कच्चिदेनं न बाधते ।
संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥

अन्वयः

शारीरः relating to the body, संतापो वाऽपि some ailment, मानसः (relating to) mind, अभितापो वा great distress, एनम् him, न बाधते कच्चित् does not trouble him, सदा always, सुखम् happiness, दुर्लभं हि rare indeed.

M N Dutt

Is he subject to any physical or mental disturbance? Oh! happiness uninterrupted is very dear.

Summary

Is he suffering from any physical ailment or mental agony? It is affliction of either the body or the mind. (For) perpetual happiness is indeed rare.

पदच्छेदः

विवर्णवदनोविवर्ण–वदन (१.१)
दीनोदीन (१.१)
(अव्ययः)
हिहि (अव्ययः)
माम्मद् (२.१)
अभिभाषतेअभिभाषते (√अभि-भाष् लट् प्र.पु. एक.)
शारीरोशारीर (१.१)
मानसोमानस (१.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
कच्चिद्कश्चित् (१.१)
एनंएनद् (२.१)
(अव्ययः)
बाधतेबाधते (√बाध् लट् प्र.पु. एक.)
संतापोसंताप (१.१)
वाभितापोवा (अव्ययः)–अभिताप (१.१)
वावा (अव्ययः)
दुर्लभंदुर्लभ (१.१)
हिहि (अव्ययः)
सदासदा (अव्ययः)
सुखम्सुख (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
विर्ण नो दी नोहि मा
भि भा ते शा री रो मा सो वापि
च्चि दे नं बा ते सं ता पो वा
भि ता पो वा दुर्ल भंहि दासु खम्