२.१६.१४

अतोषयन्महाराजमकुर्वन्वा पितुर्वचः ।
मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥

अन्वयः

महाराजम् to the maharaja (Dasaratha), अतोषयन् displeased, पितुः father's, वचः words, अकुर्वन् disobeying, नृपे कुपिते when the king has become angry, मुहूर्तमपि even for a moment, जीवितुम् to live, नेच्छेयम् do not wish.

M N Dutt

Dissatisfying the king, disregarding his words and offending him, I do not want to breathe for a single moment.

Summary

If I have (ever) displeased the maharaja, my father or disobeyed his command which has angered him, I do not wish to live for a moment৷৷

पदच्छेदः

अतोषयन्अतोषयत् (१.१)
महाराजम्महत्–राज (२.१)
अकुर्वन्अकुर्वत् (१.१)
वावा (अव्ययः)
पितुर्पितृ (६.१)
वचःवचस् (२.१)
मुहूर्तम्मुहूर्त (२.१)
अपिअपि (अव्ययः)
नेच्छेयं (अव्ययः)–इच्छेयम् (√इष् विधिलिङ् उ.पु. )
जीवितुंजीवितुम् (√जीव् + तुमुन्)
कुपितेकुपित (√कुप् + क्त, ७.१)
नृपेनृप (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोन्म हा रा
कु र्व न्वापि तुर्व चः
मु हूर्तपि ने च्छे यं
जीवि तुंकुपि तेनृ पे