२.१६.१५

यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः ।
कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते ॥

अन्वयः

नरः a man, इह in this world, आत्मनः his own, प्रादुर्भावम् coming into existence, यतो मूलम् source of his origin (birth), पश्येत् sees, प्रत्यक्षे in a visible, दैवते god, तस्मिन् in him (father), सति exists, कथम् how, न वर्तेत does not conduct.

M N Dutt

How can a man disregard him who is god himself seen and felt, and who is looked upon as a cause from whom he has sprung.

Summary

How can a man who owes his origin (birth) in this world to him (father) who still exists as a visible god not conduct himself (as per his wish)?

पदच्छेदः

यतोमूलंयतोमूल (२.१)
नरःनर (१.१)
पश्येत्पश्येत् (√पश् विधिलिङ् प्र.पु. एक.)
प्रादुर्भावम्प्रादुर्भाव (२.१)
इहात्मनःइह (अव्ययः)–आत्मन् (६.१)
कथंकथम् (अव्ययः)
तस्मिन्तद् (७.१)
(अव्ययः)
वर्तेतवर्तेत (√वृत् विधिलिङ् प्र.पु. एक.)
प्रत्यक्षेप्रत्यक्ष (७.१)
सतिसत् (√अस् + शतृ, ७.१)
दैवतेदैवत (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो मू लं रः श्ये
त्प्रा दु र्भामि हात्म नः
थं स्मिन्न र्ते
प्र त्य क्षेति दै ते