२.१६.२४

स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् ।
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥

अन्वयः

पितु: father's, सन्निदेशे by the command, तिष्ठ abide by, तेन by him, यथा in this way, प्रतिश्रुतम् promised, त्वया by you, नव पंच च nine and five (fourteen), वर्षाणि years, अरण्यम् forest, प्रवेष्टव्यम् enter (and stay).

M N Dutt

Your father is bound to me by promise, obeying therefore your father's mandate, do you repair to the forest for nine years and five.

Summary

Abide by your father's command. As promised by him go to the forest for fourteen years.

पदच्छेदः

तद् (१.१)
निदेशेनिदेश (७.१)
पितुस्पितृ (६.१)
तिष्ठतिष्ठ (√स्था लोट् म.पु. )
यथायथा (अव्ययः)
तेनतद् (३.१)
प्रतिश्रुतम्प्रतिश्रुत (√प्रति-श्रु + क्त, १.१)
त्वयारण्यंत्वद् (३.१)–अरण्य (२.१)
प्रवेष्टव्यंप्रवेष्टव्य (√प्र-विश् + कृत्, १.१)
नवनवन् (२.१)
वर्षाणिवर्ष (२.३)
पञ्चपञ्चन् (२.३)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि दे शेपि तु स्तिष्ठ
था तेप्र तिश्रु तम्
त्व या ण्यंप्र वे ष्ट व्यं
र्षाणिञ्च