२.१६.३६

गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥

अन्वयः

नृपशासनात् by the king's order, मातुलकुलात् from his maternal uncle's house, भरतम् Bharata, आनयितुम् to bring back, दूताः messengers, शीघ्रजवैः speedy, हयैः horses, अद्यैव (today itself) right now, गच्छन्तु let go.

M N Dutt

Let messengers, with fast going steeds go today at the command of the king to fetch Bharata from his maternal uncle's house.

Summary

With the king's orders let messengers go right away on swift horses to fetch Bharata from his maternal uncle's house.

पदच्छेदः

गच्छन्तुगच्छन्तु (√गम् लोट् प्र.पु. बहु.)
चैवानयितुं (अव्ययः)–एव (अव्ययः)–आनयितुम् (√आ-नी + तुमुन्)
दूताःदूत (१.३)
शीघ्रजवैर्शीघ्र–जव (३.३)
हयैःहय (३.३)
भरतंभरत (२.१)
मातुलकुलाद्मातुल–कुल (५.१)
अद्यैवअद्य (अव्ययः)–एव (अव्ययः)
नृपशासनात्नृप–शासन (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छन्तु चै वायि तुं
दू ताः शीघ्र वैर्ह यैः
तं मातुकु ला
द्यैनृ शा नात्