२.१६.४३

धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।
मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते ॥

अन्वयः

राजा king, धिक् fie, कष्टम् what a calamity, इति thus, निःश्वस्य sighing, शोकपरिप्लुतः overwhelmed with sorrow, मूर्छितः having fainted, हेमभूषिते adorned with gold, तस्मिन् पर्यङ्के on that couch, न्यपतत् fell down.

M N Dutt

'Oh fie!' 'what affliction' sobbing hard with these words, the monarch, filled with sorrow, swooned away and fell down upon the sofa, embellished with gold.

Summary

'Fie, what a calamity' sighing thus, the king, overwhelmed with sorrow, fainted and fell back on the golden couch.

पदच्छेदः

धिक्धिक् (अव्ययः)
कष्टम्कष्ट (१.१)
इतिइति (अव्ययः)
निःश्वस्यनिःश्वस्य (√निः-श्वस् + ल्यप्)
राजाराजन् (१.१)
शोकपरिप्लुतःशोक–परिप्लुत (√परि-प्लु + क्त, १.१)
मूर्छितोमूर्छित (√मूर्छय् + क्त, १.१)
न्यपतत्न्यपतत् (√नि-पत् लङ् प्र.पु. एक.)
तस्मिन्तद् (७.१)
पर्यङ्केपर्यङ्क (७.१)
हेमभूषितेहेमन्–भूषित (√भूषय् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

धि क्कष्टमिति निः श्वस्य
रा जा शो रिप्लु तः
मूर्छि तोन्य त्तस्मि
न्प र्य ङ्के हे भूषि ते