२.१६.५२

भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥

अन्वयः

भरतः Bharata, यथा so that, राज्यम् the kingdom, पालयेत् rules, पितुः for father, शुश्रूषेच्च serves, तथा thus, भवत्या by you, कर्तव्यम् it should be done, सः that, सनातनः eternal, धर्मः हि duty indeed.

M N Dutt

If behoves you to do that by which Bharata may govern the kingdom and tend our father, for this is the virtue eternal.

Summary

It is your bounden duty to see that Bharata rules the kingdom and serves father.

पदच्छेदः

भरतःभरत (१.१)
पालयेद्पालयेत् (√पालय् विधिलिङ् प्र.पु. एक.)
राज्यंराज्य (२.१)
शुश्रूषेच्शुश्रूषेत् (√शुश्रूष् विधिलिङ् प्र.पु. एक.)
(अव्ययः)
पितुर्पितृ (६.१)
यथायथा (अव्ययः)
तथातथा (अव्ययः)
भवत्याभवत् (३.१)
कर्तव्यंकर्तव्य (√कृ + कृत्, १.१)
तद् (१.१)
हिहि (अव्ययः)
धर्मःधर्म (१.१)
सनातनःसनातन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः पा ये द्रा ज्यं
शु श्रू षेच्चपि तुर्य था
था त्या र्त व्यं
हि र्मः ना नः