२.१६.९

अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥

अन्वयः

अन्यदा in other times, पिता father, कुपितोऽपि even though angry (displeased), माम् me, दृष्ट्वा on seeing, प्रसीदति feels pleased, तस्य for him, अद्य today, माम् me, संप्रेक्ष्य having seen, किं why आयासः sorrow, प्रवर्तते caused.

M N Dutt

Angry though, he used to express joy whenever he saw me; then why does his sorrow prevail even seeing me to-day?

Summary

On other occasions even though angry he would feel pleased. But today why does he feel sad even after seeing me?

पदच्छेदः

अन्यदाअन्यदा (अव्ययः)
मांमद् (२.१)
पितापितृ (१.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
कुपितोकुपित (√कुप् + क्त, १.१)
ऽपिअपि (अव्ययः)
प्रसीदतिप्रसीदति (√प्र-सद् लट् प्र.पु. एक.)
तस्यतद् (६.१)
माम्मद् (२.१)
अद्यअद्य (अव्ययः)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
किमायासः (१.१)–आयास (१.१)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्य दा मांपि ता दृ ष्ट्वा
कुपि तो ऽपिप्र सीति
स्य माद्य सं प्रेक्ष्य
कि मा या सःप्रर्त ते