२.१७.१३

मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत् ।
स स्वभावविनीतश्च गौरवाच्च तदानतः ॥

पदच्छेदः

मातरंमातृ (२.१)
राघवःराघव (१.१)
किंचित्कश्चित् (२.१)
प्रसार्याञ्जलिम्प्रसार्य (√प्र-सारय् + ल्यप्)–अञ्जलि (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तद् (१.१)
स्वभावविनीतश्स्वभाव–विनीत (√वि-नी + क्त, १.१)
(अव्ययः)
गौरवाच्गौरव (५.१)
(अव्ययः)
तदानतःतदा (अव्ययः)–आनत (√आ-नम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा रं रा वः किंचि
त्प्र सा र्याञ्जलिब्र वीत्
स्व भावि नीश्च
गौ वाच्च दा तः