२.१७.२५

यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते ।
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥

अन्वयः

यः whoever, कश्चित् any one, माम् me, सेवते serving, अथवा or, अनुवर्तते following me, सः जनः such person, कैकेय्याः Kaikeyi's, पुत्रम् son, अन्वीक्ष्य having seen, नाभिभाषते हि will not talk to me.

M N Dutt

Those who serve me or are obedient to me, shall not even speak with me when they will see the son of Kaikeyi (installed).

Summary

Any one who serves me or follows me will not talk to me after seeing Bharata (installed as heirapparent).

पदच्छेदः

योयद् (१.१)
हिहि (अव्ययः)
मांमद् (२.१)
सेवतेसेवते (√सेव् लट् प्र.पु. एक.)
कश्चिद्कश्चित् (१.१)
अथअथ (अव्ययः)
वाप्य्वा (अव्ययः)–अपि (अव्ययः)
अनुवर्ततेअनुवर्तते (√अनु-वृत् लट् प्र.पु. एक.)
कैकेय्याःकैकेयी (६.१)
पुत्रम्पुत्र (२.१)
अन्वीक्ष्यअन्वीक्ष्य (√अनु-ईक्ष् + ल्यप्)
तद् (१.१)
जनोजन (१.१)
नाभिभाषते (अव्ययः)–अभिभाषते (√अभि-भाष् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

योहि मां से तेश्चि
वाप्यनुर्त ते
कै के य्याः पुत्र न्वीक्ष्य
नो नाभि भा ते