२.१८.२०

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥

अन्वयः

पुत्र O son, काश्यपः Kasyapa, जननीम् his mother, शुश्रूषुः by serving, नियतः with selfdiscipline, स्वगृहे in his own home, वसन् while dwelling, परेण with the highest, तपसा with penance, युक्तः engaged in, त्रिदिवम् heaven, गतः went.

M N Dutt

Hear, Oh my son, the great ascetic Kasyapa, lived in his house, serving his mother continually and being crowned with best moral merit reached heaven.

Summary

O son Kasyapa who led a life of selfdiscipline and served his mother at home, attained heaven credited with (the merit of) the highest penance.

पदच्छेदः

शुश्रूषुर्शुश्रूषु (१.१)
जननींजननी (२.१)
पुत्रपुत्र (८.१)
स्वगृहेस्व–गृह (७.१)
नियतोनियत (√नि-यम् + क्त, १.१)
वसन्वसत् (√वस् + शतृ, १.१)
परेणपर (३.१)
तपसातपस् (३.१)
युक्तःयुक्त (√युज् + क्त, १.१)
काश्यपस्काश्यप (१.१)
त्रिदिवंत्रिदिव (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शु श्रू षुर्ज नीं पुत्र
स्वगृ हेनि तो सन्
रे सा यु क्तः
काश्यस्त्रिदि वं तः