२.१८.२३

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।
अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥

अन्वयः

शोकलालसाम् overtaken by sorrow, माम् me, त्यक्त्वा after leaving, त्वम् you, वनम् to the forest, यास्यसि यदि if you depart, अहम् I, इह here, प्रायम् असिष्ये I shall seek death by fasting, जीवितुम् to live, न शक्ष्यामि हि I am not able.

M N Dutt

If do you depart to the forest leaving me troubled with sorrow, I shall resort to the vow of fasting and shall not be able to sustain my life.

Summary

If you depart for the forest leaving me griefstricken I cannot live. Here I shall seek death by fasting.

पदच्छेदः

यदियदि (अव्ययः)
त्वंत्वद् (१.१)
यास्यसियास्यसि (√या लृट् म.पु. )
वनंवन (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
मांमद् (२.१)
शोकलालसाम्शोक–लालस (२.१)
अहंमद् (१.१)
प्रायम्प्राय (२.१)
इहासिष्येइह (अव्ययः)–आसिष्ये (√आस् लृट् उ.पु. )
(अव्ययः)
हिहि (अव्ययः)
शक्ष्यामिशक्ष्यामि (√शक् लृट् उ.पु. )
जीवितुम्जीवितुम् (√जीव् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि त्वं यास्यसि नं
त्य क्त्वा मां शो ला साम्
हं प्रामि हा सि ष्ये
हि क्ष्यामि जीवि तुम्