२.१८.२५

विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥

अन्वयः

ततः thereafter, धर्मात्मा virtuous, रामः Rama, दीनाम् miserable lady, तथा in that way, विलपन्तीम् lamenting, जननीम् to his mother, कौशल्याम् to Kausalya, धर्मसंहितम् consistent with righteousness, वचनम् words, उवाच said.

M N Dutt

Whereupon to his mother Kausalyä, sorrowful and weeping, spoke Răma, virtuous-souled these words of righteousness.

Summary

Thereafter, virtuous Rama addressed these words consistent with righteousness to his miserable mother Kausalya who was thus lamenting:

पदच्छेदः

विलपन्तींविलपत् (√वि-लप् + शतृ, २.१)
तथातथा (अव्ययः)
दीनांदीन (२.१)
कौसल्यांकौसल्या (२.१)
जननींजननी (२.१)
ततःततस् (अव्ययः)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
रामोराम (१.१)
धर्मात्माधर्म–आत्मन् (१.१)
वचनंवचन (२.१)
धर्मसंहितम्धर्म–संहित (√सम्-धा + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि न्तीं था दी नां
कौ ल्यां नीं तः
वा रा मो र्मा त्मा
नंर्म संहि तम्