२.१८.५

न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।
अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥

अन्वयः

स्वमित्रोऽपि even an adversary, निरस्तोऽपि or the defeated, यः नरः any man, परोक्षमपि in his absence also, अस्य his, दोषम् fault, उदाहरेत् can cite, तम् him, अहम् I, लोके in this world, न पश्यामि do not find.

M N Dutt

I do not find any such man in this world, even amongst great enemies, who, forsaken for heinous sins, can cite, even in his absence, any fault of him.

Summary

I do not find anybody in this world, even an adversary or one defeated, who finds fault with him even in his absence.

पदच्छेदः

(अव्ययः)
तंतद् (२.१)
पश्याम्य्पश्यामि (√दृश् लट् उ.पु. )
अहंमद् (१.१)
लोकेलोक (७.१)
परोक्षम्परोक्ष (२.१)
अपिअपि (अव्ययः)
योयद् (१.१)
नरःनर (१.१)
अमित्रोअमित्र (१.१)
ऽपिअपि (अव्ययः)
निरस्तोनिरस्त (√निः-अस् + क्त, १.१)
ऽपिअपि (अव्ययः)
योयद् (१.१)
ऽस्यइदम् (६.१)
दोषम्दोष (२.१)
उदाहरेत्उदाहरेत् (√उदा-हृ विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं श्याम्य हं लो के
रोक्षपि यो रः
मि त्रोऽपिनि स्तोऽपि
योऽस्य दोमु दा रेत्