२.१८.९

मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥

अन्वयः

राघव O Rama, पार्श्वे by your side, स धनुषा with bow, मया by me, गुप्तस्य protected, कृतान्तस्येव like Yama, (god of death), तिष्ठतः (yourself) standing, अधिकम् excess, कर्तुं to challenge, कः who, समर्थः is able?

M N Dutt

Who can disturb the installation, Oh Rāghava, myself protecting you by your side with my bows, like to Death himself.

Summary

O Rama who can commit excesses on you, when you stand like Yama, god of death, protected by me with my bow?

पदच्छेदः

मयामद् (३.१)
पार्श्वेपार्श्व (७.१)
सधनुषा (अव्ययः)–धनुस् (३.१)
तवत्वद् (६.१)
गुप्तस्यगुप्त (√गुप् + क्त, ६.१)
राघवराघव (८.१)
कः (१.१)
समर्थोसमर्थ (१.१)
ऽधिकंअधिक (२.१)
कर्तुंकर्तुम् (√कृ + तुमुन्)
कृतान्तस्येवकृतान्त (६.१)–इव (अव्ययः)
तिष्ठतःतिष्ठत् (√स्था + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या पा र्श्वेनु षा
गु प्तस्य रा
कः र्थोऽधि कं र्तुं
कृ ता न्त स्ये तिष्ठ तः