२.१९.२१

व्याहतेऽप्यभिषेके मे परितापो न विद्यते ।
तस्मादपरितापः संस्त्वमप्यनुविधाय माम् ।
प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम् ॥

अन्वयः

तस्मात् therefore, त्वमपि you also, माम् me, अनुविधाय having followed, अपरितापः bereft of grief, क्षिप्रम् immediately, अभिषेचनिकीम् relating to coronation, क्रियाम् acts, प्रतिसंहारय withdraw.

M N Dutt

Do you therefore assuage your grief and follow me and intercept speedily the collection of materials for my installation.

Summary

Therefore, be free from grief like me and revoke all the arrangements made for the consecration ceremony immediately.

पदच्छेदः

व्याहतेव्याहत (√व्या-हन् + क्त, ७.१)
ऽप्य्अपि (अव्ययः)
अभिषेकेअभिषेक (७.१)
मेमद् (६.१)
परितापोपरिताप (१.१)
(अव्ययः)
विद्यतेविद्यते (√विद् प्र.पु. एक.)
तस्माद्तस्मात् (अव्ययः)
अपरितापः (अव्ययः)–परिताप (१.१)
संस्सत् (√अस् + शतृ, १.१)
त्वम्त्वद् (१.१)
अप्य्अपि (अव्ययः)
अनुविधायअनुविधाय (√अनुवि-धा + ल्यप्)
माम्मद् (२.१)
प्रतिसंहारयप्रतिसंहारय (√प्रतिसम्-हारय् लोट् म.पु. )
क्षिप्रम्क्षिप्रम् (अव्ययः)
आभिषेचनिकींआभिषेचनिक (२.१)
क्रियाम्क्रिया (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
व्या तेऽप्यभि षे के मेरि ता पो
विद्य ते स्मारि ता पः सं
स्त्वप्यनुवि धा माम्प्रति सं हा
क्षिप्र माभि षेनि कींक्रि याम्