२.१९.५

तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे ।
मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम् ॥

अन्वयः

सौमित्रे O Lakshmana, अहम् I, तस्याः her, मनसि in mind, प्रतिसंजातम् arisen, शङ्कामयम् apprehensive, दुःखम् sorrow, मुहूर्तमपि even for a moment, उपेक्षितुम् to neglect, नोत्सहे I am not inclined.

M N Dutt

Oh, son of Sumitra, I cannot neglect for a moment the trouble which has arisen in her mind on account of this fear.

Summary

Even for a moment, O Lakshmana I am not inclined to ignore her sorrow caused by the apprehension in her mind (about the possibility of Rama's coronation).

पदच्छेदः

तस्याःतद् (६.१)
शङ्कामयंशङ्का–आमय (२.१)
दुःखंदुःख (२.१)
मुहूर्तम्मुहूर्त (२.१)
अपिअपि (अव्ययः)
नोत्सहे (अव्ययः)–उत्सहे (√उत्-सह् लट् उ.पु. )
मनसिमनस् (७.१)
प्रतिसंजातंप्रतिसंजात (√प्रतिसम्-जन् + क्त, २.१)
सौमित्रेसौमित्रि (८.१)
ऽहम्मद् (१.१)
उपेक्षितुम्उपेक्षितुम् (√उप-ईक्ष् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याः ङ्का यं दुः खं
मु हूर्तपि नोत्स हे
सिप्रति सं जा तं
सौ मि त्रेऽहमु पेक्षि तुम्