२.२.१६

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥

अन्वयः

इति in this way, तद्वचनम् those words, श्रुत्वा having heard, राजा the king, तेषाम् their, मन: प्रियम् pleasing to their mind, अजानन्निव as if he did not know earlier, जिज्ञासु: with a wish to ascertain, इदम् these, वचनम् words, अब्रवीत् spoke.

Summary

Having heard them king Dasaratha, pretending as though he was not aware of their heart's desire but was now wishing to ascertain it, spoke these words:

पदच्छेदः

इतिइति (अव्ययः)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
राजाराजन् (१.१)
तेषांतद् (६.३)
मनःप्रियम्मनस्–प्रिय (२.१)
अजानन्न्अजानत् (१.१)
इवइव (अव्ययः)
जिज्ञासुर्जिज्ञासु (१.१)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तिद्व नं श्रु त्वा
रा जा ते षां नःप्रि यम्
जान्नि जि ज्ञासु
रि दंब्र वीत्