२.२.१७

कथं नु मयि धर्मेण पृथिवीमनुशासति ।
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥

अन्वयः

मयि by me, धर्मेण righteously, पृथिवीम् this earth, अनुशासति while governing, भवन्त: you, मम my, आत्मजम् son, युवराजम् as princeregent, द्रष्टुम् to see, कथं नु why indeed, इच्छन्ति wish

Summary

When the earth is being ruled righteously by me why indeed you intend to see my son as prince regent?

पदच्छेदः

कथंकथम् (अव्ययः)
नुनु (अव्ययः)
मयिमद् (७.१)
धर्मेणधर्म (३.१)
पृथिवीम्पृथिवी (२.१)
अनुशासतिअनुशासत् (√अनु-शास् + शतृ, ७.१)
भवन्तोभवत् (१.३)
द्रष्टुम्द्रष्टुम् (√दृश् + तुमुन्)
इच्छन्तिइच्छन्ति (√इष् लट् प्र.पु. बहु.)
युवराजंयुवराज (२.१)
ममात्मजम्मद् (६.१)–आत्मज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थंनुयि र्मे
पृथि वीनु शाति
न्तो द्रष्टु मि च्छन्ति
यु रा जं मात्म जम्