२.२०.११

विक्लवो वीर्यहीनो यः स दैवमनुवर्तते ।
वीराः संभावितात्मानो न दैवं पर्युपासते ॥

अन्वयः

यः who, विक्लबः timid, वीर्यहीनः weak, सः that one, दैवम् the destiny, अनुवर्तते follows, सम्भावितात्मानः respected souls, वीराः the valiant, दैवम् destiny, न पर्युपासते do not depend upon.

Summary

Those who are timid and cowardly alone depend on destiny.The valiant with of selfrespect will not accept it.

पदच्छेदः

विक्लवोविक्लव (१.१)
वीर्यहीनोवीर्य–हीन (√हा + क्त, १.१)
यःयद् (१.१)
तद् (१.१)
दैवम्दैव (२.१)
अनुवर्ततेअनुवर्तते (√अनु-वृत् लट् प्र.पु. एक.)
वीराःवीर (१.३)
संभावितात्मानोसंभावित (√सम्-भावय् + क्त)–आत्मन् (१.३)
(अव्ययः)
दैवंदैव (२.१)
पर्युपासतेपर्युपासते (√पर्युप-आस् लट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विक्ल वो वीर्य ही नो यः
दैनुर्त ते
वी राः सं भावि ता त्मा नो
दै वंर्यु पा ते