२.२०.२

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ ।
निशश्वास महासर्पो बिलस्थ इव रोषितः ॥

अन्वयः

नरर्षभः best among men (Lakshmana), तदा तु then, भ्रुवो: brows, मध्ये in between, भ्रुकुटीम् a frown, बध्द्वा having knitted, बिलस्थः in its hole, रोषितः seized with anger, महासर्पः great serpent, इव like, निशश्वास hissed.

Summary

Lakshmana, frowning between his eyebrows, hissed like a great serpent seized with anger in its hole.

पदच्छेदः

तदातदा (अव्ययः)
तुतु (अव्ययः)
बद्ध्वाबद्ध्वा (√बन्ध् + क्त्वा)
भ्रुकुटींभ्रुकुटि (२.१)
भ्रुवोर्भ्रू (६.२)
मध्येमध्य (७.१)
नरर्षभःनर–ऋषभ (१.१)
निशश्वासनिशश्वास (√नि-श्वस् लिट् प्र.पु. एक.)
महासर्पोमहत्–सर्प (१.१)
बिलस्थबिल–स्थ (१.१)
इवइव (अव्ययः)
रोषितःरोषित (√रोषय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दातु द्ध्वाभ्रुकु टीं
भ्रु वो र्म ध्येर्ष
नि श्वा हा र्पो
बिस्थ रोषि तः